Sukta 6.35
कर्हि स्वित्तदिन्द्र यज्जरित्रे विश्वप्सु ब्रह्म कृणवः शविष्ठ । कदा धियो न नियुतो युवासे कदा गोमघा हवनानि गच्छाः ॥
कर्हि॑ स्वि॒त्तदि॑न्द्र॒ यज्ज॑रि॒त्रे वि॒श्वप्सु॒ ब्रह्म॑ कृ॒णव॑: शविष्ठ । क॒दा धियो॒ न नि॒युतो॑ युवासे क॒दा गोम॑घा॒ हव॑नानि गच्छाः ॥
karhi svit tad indra yaj jaritre viśva-psu brahma kṛṇavaḥ śaviṣṭha | kadā dhiyo na ni-yuto yuvāse kadā go-maghā havanāni gacchāḥ ||
When indeed is that, O Indra, when for the singer thou makest the brahman all-accomplishing, O most forceful? When wilt thou yoke (thy powers) like teams to our thoughts? When, O giver rich in rays, wilt thou come to our invocations?
कर्हि॑ । स्वि॒त् । तत् । इ॒न्द्र॒ । यत् । ज॒रि॒त्रे । वि॒श्वऽप्सु॑ । ब्रह्म॑ । कृ॒णवः॑ । श॒वि॒ष्ठ॒ । क॒दा । धियः॑ । न । नि॒ऽयुतः॑ । यु॒वा॒से॒ । क॒दा । गोऽम॑घा । हव॑नानि । ग॒च्छाः॒ ॥कर्हि । स्वित् । तत् । इन्द्र । यत् । जरित्रे । विश्वप्सु । ब्रह्म । कृणवः । शविष्ठ । कदा । धियः । न । नियुतः । युवासे । कदा । गोमघा । हवनानि । गच्छाः ॥karhi | svit | tat | indra | yat | jaritre | viśva-psu | brahma | kṛṇavaḥ | śaviṣṭha | kadā | dhiyaḥ | na | ni-yutaḥ | yuvāse | kadā | go--maghā | havanāni | gacchāḥ