Sukta 6.35
कर्हि स्वित्तदिन्द्र यन्नृभिर्नॄन्वीरैर्वीरान्नीळयासे जयाजीन् । त्रिधातु गा अधि जयासि गोष्विन्द्र द्युम्नं स्वर्वद्धेह्यस्मे ॥
कर्हि॑ स्वि॒त्तदि॑न्द्र॒ यन्नृभि॒र्नॄन्वी॒रैर्वी॒रान्नी॒ळया॑से॒ जया॒जीन् । त्रि॒धातु॒ गा अधि॑ जयासि॒ गोष्विन्द्र॑ द्यु॒म्नं स्व॑र्वद्धेह्य॒स्मे ॥
karhi svit tad indra yan nṛbhir nṝn vīrair vīrān nīḷayāse jaya ājīn | tri-dhātu gā adhi jayāsi goṣv indra dyumnaṃ svaḥ-vad dhehy asme ||
When indeed is that, O Indra, when with men thou settest heroes among heroes, conquering the battles? Winning the threefold-founded cows (the lights) among the herds, O Indra, place in us a splendour that is full of svàr.
कर्हि॑ । स्वि॒त् । तत् । इ॒न्द्र॒ । यत् । नृऽभिः॑ । नॄन् । वी॒रैः । वी॒रान् । नी॒ळया॑से । जय॑ । आ॒जीन् । त्रि॒ऽधातु॑ । गाः । अधि॑ । ज॒या॒सि॒ । गोषु॑ । इन्द्र॑ । द्यु॒म्नम् । स्वः॒ऽवत् । धे॒हि॒ । अ॒स्मे इति॑ ॥कर्हि । स्वित् । तत् । इन्द्र । यत् । नृभिः । नॄन् । वीरैः । वीरान् । नीळयासे । जय । आजीन् । त्रिधातु । गाः । अधि । जयासि । गोषु । इन्द्र । द्युम्नम् । स्वःवत् । धेहि । अस्मे इति ॥karhi | svit | tat | indra | yat | nṛ-bhiḥ | nṝn | vīraiḥ | vīrān | nīḷayāse | jaya | ājīn | tri-dhātu | gāḥ | adhi | jayāsi | goṣu | indra | dyumnam | svaḥ-vat | dhehi | asme iti