Sukta 6.35
कदा भुवन्रथक्षयाणि ब्रह्म कदा स्तोत्रे सहस्रपोष्यं दाः । कदा स्तोमं वासयोऽस्य राया कदा धियः करसि वाजरत्नाः ॥
क॒दा भु॑व॒न्रथ॑क्षयाणि॒ ब्रह्म॑ क॒दा स्तो॒त्रे स॑हस्रपो॒ष्यं॑ दाः । क॒दा स्तोमं॑ वासयोऽस्य रा॒या क॒दा धिय॑: करसि॒ वाज॑रत्नाः ॥
kadā bhuvan ratha-kṣayāṇi brahma kadā stotre sahasra-poṣyaṃ dāḥ | kadā stomaṃ vāsayo 'sya rāyā kadā dhiyaḥ karasi vāja-ratnāḥ ||
When wilt thou make our word a home of chariots (a stable power of movement)? When wilt thou give to the hymn the thousandfold increase? When wilt thou clothe this chant with thy wealth? When wilt thou make our thoughts rich in plenitudes of force and treasures?
क॒दा । भु॒व॒न् । रथ॑ऽक्षयाणि । ब्रह्म॑ । क॒दा । स्तो॒त्रे । स॒ह॒स्र॒ऽपो॒ष्य॑म् । दाः॒ । क॒दा । स्तोम॑म् । वा॒स॒यः॒ । अ॒स्य॒ । रा॒या । क॒दा । धियः॑ । क॒र॒सि॒ । वाज॑ऽरत्नाः ॥कदा । भुवन् । रथक्षयाणि । ब्रह्म । कदा । स्तोत्रे । सहस्रपोष्यम् । दाः । कदा । स्तोमम् । वासयः । अस्य । राया । कदा । धियः । करसि । वाजरत्नाः ॥kadā | bhuvan | ratha-kṣayāṇi | brahma | kadā | stotre | sahasra-poṣyam | dāḥ | kadā | stomam | vāsayaḥ | asya | rāyā | kadā | dhiyaḥ | karasi | vāja-ratnāḥ