Sukta 6.34
अस्मा एतद्दिव्यर्चेव मासा मिमिक्ष इन्द्रे न्ययामि सोमः । जनं न धन्वन्नभि सं यदापः सत्रा वावृधुर्हवनानि यज्ञैः ॥
अस्मा॑ ए॒तद्दि॒व्य१॒॑र्चेव॑ मा॒सा मि॑मि॒क्ष इन्द्रे॒ न्य॑यामि॒ सोम॑: । जनं॒ न धन्व॑न्न॒भि सं यदाप॑: स॒त्रा वा॑वृधु॒र्हव॑नानि य॒ज्ञैः ॥
asmā etad divy arcāiva māsā mimikṣa indre ny ayāmi somaḥ | janaṃ na dhanvann abhi saṃ yad āpaḥ satrā vāvṛdhur havanāni yajñaiḥ ||
To him I bring this, like a divine flame of praise; month by month the Soma is poured and blended into Indra. As waters converge and press together upon the people like a flowing stream, so continually the callings have increased by the sacrifices.
अस्मै॑ । ए॒तत् । दि॒वि । अ॒र्चाऽइ॑व । मा॒सा । मि॒मि॒क्षः । इन्द्रे॑ । नि । अ॒या॒मि॒ । सोमः॑ । जन॑म् । न । धन्व॑न् । अ॒भि । सम् । यत् । आपः॑ । स॒त्राः । व॒वृ॒धुः॒ । हव॑नानि । य॒ज्ञैः ॥अस्मै । एतत् । दिवि । अर्चाइव । मासा । मिमिक्षः । इन्द्रे । नि । अयामि । सोमः । जनम् । न । धन्वन् । अभि । सम् । यत् । आपः । सत्राः । ववृधुः । हवनानि । यज्ञैः ॥asmai | etat | divi | arcāiva | māsā | mimikṣaḥ | indre | ni | ayāmi | somaḥ | janam | na | dhanvan | abhi | sam | yat | āpaḥ | satrāḥ | vavṛdhuḥ | havanāni | yajñaiḥ