Sukta 6.34
न यं हिंसन्ति धीतयो न वाणीरिन्द्रं नक्षन्तीदभि वर्धयन्तीः । यदि स्तोतारः शतं यत्सहस्रं गृणन्ति गिर्वणसं शं तदस्मै ॥
न यं हिंस॑न्ति धी॒तयो॒ न वाणी॒रिन्द्रं॒ नक्ष॒न्तीद॒भि व॒र्धय॑न्तीः । यदि॑ स्तो॒तार॑: श॒तं यत्स॒हस्रं॑ गृ॒णन्ति॒ गिर्व॑णसं॒ शं तद॑स्मै ॥
na yaṃ hiṃsanti dhītayo na vāṇīr indraṃ nakṣantīd abhi vardhayantīḥ | yadi stotāraḥ śataṃ yat sahasraṃ gṛṇanti girvaṇasaṃ śaṃ tad asmai ||
The thoughts do not diminish him, nor do the words reach an end of Indra, even while they increase him on every side. Even if the praisers chant a hundred, yes a thousand (hymns), for the lord who delights in the song, that becomes for him peace and bliss.
न । यम् । हिंस॑न्ति । धी॒तयः॑ । न । वाणीः॑ । इन्द्र॑म् । नक्ष॑न्ति । इत् । अ॒भि । व॒र्धय॑न्तीः । यदि॑ । स्तो॒तारः॑ । श॒तम् । यत् । स॒हस्र॑म् । गृ॒णन्ति॑ । गिर्व॑णसम् । शम् । तत् । अ॒स्मै॒ ॥न । यम् । हिंसन्ति । धीतयः । न । वाणीः । इन्द्रम् । नक्षन्ति । इत् । अभि । वर्धयन्तीः । यदि । स्तोतारः । शतम् । यत् । सहस्रम् । गृणन्ति । गिर्वणसम् । शम् । तत् । अस्मै ॥na | yam | hiṃsanti | dhītayaḥ | na | vāṇīḥ | indram | nakṣanti | it | abhi | vadharyantīḥ | yadi | stotāraḥ | śatam | yat | sahasram | gṛṇanti | girvaṇasam | śam | tat | asmai