Sukta 6.34
पुरुहूतो यः पुरुगूर्त ऋभ्वाँ एकः पुरुप्रशस्तो अस्ति यज्ञैः । रथो न महे शवसे युजानोऽस्माभिरिन्द्रो अनुमाद्यो भूत् ॥
पु॒रु॒हू॒तो यः पु॑रुगू॒र्त ऋभ्वाँ॒ एक॑: पुरुप्रश॒स्तो अस्ति॑ य॒ज्ञैः । रथो॒ न म॒हे शव॑से युजा॒नो॒३॒॑ऽस्माभि॒रिन्द्रो॑ अनु॒माद्यो॑ भूत् ॥
puruhūto yaḥ purugūrta ṛbhvāṃ ekaḥ purupraśasto asti yajñaiḥ | ratho na mahe śavase yujāno 'smābhir indro anumādyo bhūt ||
He who is called by many, who is praised in many ways, the single mighty and skilful one, widely celebrated by the sacrifices—may Indra, yoked like a chariot for the great force, become for us one who is gladdened in our following and assent (to the rite).
पु॒रु॒ऽहू॒तः । यः । पु॒रु॒ऽगू॒र्तः । ऋभ्वा॑ । एकः॑ । पु॒रु॒ऽप्र॒श॒स्तः । अस्ति॑ । य॒ज्ञैः । रथः॑ । न । म॒हे । शव॑से । यु॒जा॒नः । अ॒स्माभिः॑ । इन्द्रः॑ । अ॒नु॒ऽमाद्यः॑ । भू॒त् ॥पुरुहूतः । यः । पुरुगूर्तः । ऋभ्वा । एकः । पुरुप्रशस्तः । अस्ति । यज्ञैः । रथः । न । महे । शवसे । युजानः । अस्माभिः । इन्द्रः । अनुमाद्यः । भूत् ॥puru-hūtaḥ | yaḥ | puru-gūrtaḥ | ṛbhvā | ekaḥ | puru-praśastaḥ | asti | yajñaiḥ | rathaḥ | na | mahe | śavase | yujānaḥ | asmābhiḥ | indraḥ | anu-mādyaḥ | bhūt