Sukta 6.34
सं च त्वे जग्मुर्गिर इन्द्र पूर्वीर्वि च त्वद्यन्ति विभ्वो मनीषाः । पुरा नूनं च स्तुतय ऋषीणां पस्पृध्र इन्द्रे अध्युक्थार्का ॥
सं च॒ त्वे ज॒ग्मुर्गिर॑ इन्द्र पू॒र्वीर्वि च॒ त्वद्य॑न्ति वि॒भ्वो॑ मनी॒षाः । पु॒रा नू॒नं च॑ स्तु॒तय॒ ऋषी॑णां पस्पृ॒ध्र इन्द्रे॒ अध्यु॑क्था॒र्का ॥
saṃ ca tve jagmur gira indra pūrvīr vi ca tvad yanti vibhvo manīṣāḥ | purā nūnaṃ ca stutaya ṛṣīṇāṃ paspṛdhre indre adhy uktha-arkā ||
Into thee have gone and gathered the ancient words, O Indra, and from thee go forth the wide and effective thoughts. Formerly and now the praises of the seers have striven toward Indra; the hymns and chants press upward to thee.
सम् । च॒ । त्वे इति॑ । ज॒ग्मुः । गिरः॑ । इ॒न्द्र॒ । पू॒र्वीः । वि । च॒ । त्वत् । य॒न्ति॒ । वि॒ऽभ्वः॑ । म॒नी॒षाः । पु॒रा । नू॒नम् । च॒ । स्तु॒तयः॑ । ऋषी॑णाम् । प॒स्पृ॒ध्रे । इन्द्रे॑ । अधि॑ । उ॒क्थ॒ऽअ॒र्का ॥सम् । च । त्वे इति । जग्मुः । गिरः । इन्द्र । पूर्वीः । वि । च । त्वत् । यन्ति । विभ्वः । मनीषाः । पुरा । नूनम् । च । स्तुतयः । ऋषीणाम् । पस्पृध्रे । इन्द्रे । अधि । उक्थअर्का ॥sam | ca | tve | iti | jagmuḥ | giraḥ | indra | pūrvīḥ | vi | ca | tvat | yanti | vi-bhvaḥ | manīṣāḥ | purā | nūnam | ca | stutayaḥ | ṛṣīṇām | paspṛdhre | indre | adhi | uktha-arkā