Sukta 6.3
दिवो न यस्य विधतो नवीनोद्वृषा रुक्ष ओषधीषु नूनोत् । घृणा न यो ध्रजसा पत्मना यन्ना रोदसी वसुना दं सुपत्नी ॥
दि॒वो न यस्य॑ विध॒तो नवी॑नो॒द्वृषा॑ रु॒क्ष ओष॑धीषु नूनोत् । घृणा॒ न यो ध्रज॑सा॒ पत्म॑ना॒ यन्ना रोद॑सी॒ वसु॑ना॒ दं सु॒पत्नी॑ ॥
divó na yásya vidható navī́not vṛ́ṣā rukṣá oṣádhīṣu nūnot | ghṛṇā́ na yó dhrajásā pátmanā yánn ā́ rodasī vásunā dám su-pátnī ||
He whose newness renews the one who serves, like heaven itself; the Bull, shining, drives his force into the plants. Like warm splendor, he moves with blazing speed; he comes to the two worlds, rich in plenty, as to a home—those two good-consorted powers.
दि॒वः । न । यस्य॑ । वि॒ध॒तः । नवी॑नोत् । वृषा॑ । रु॒क्षः । ओष॑धीषु । नू॒नो॒त् । घृणा॑ । न । यः । ध्रज॑सा । पत्म॑ना । यन् । आ । रोद॑सी॒ इति॑ । वसु॑ना । दम् । सु॒पत्नी॒ इति॑ सु॒ऽपत्नी॑ ॥दिवः । न । यस्य । विधतः । नवीनोत् । वृषा । रुक्षः । ओषधीषु । नूनोत् । घृणा । न । यः । ध्रजसा । पत्मना । यन् । आ । रोदसी इति । वसुना । दम् । सुपत्नी इति सुपत्नी ॥divaḥ | na | yasya | vidhataḥ | navīnot | vṛṣā | rukṣaḥ | oṣadhīṣu | nūnot | ghṛṇā | na | yaḥ | dhrajasā | patmanā | yan | ā | rodasī iti | vasunā | dam | supatnī itisu-patnī