Sukta 6.3
स ईं रेभो न प्रति वस्त उस्राः शोचिषा रारपीति मित्रमहाः । नक्तं य ईमरुषो यो दिवा नॄनमर्त्यो अरुषो यो दिवा नॄन् ॥
स ईं॑ रे॒भो न प्रति॑ वस्त उ॒स्राः शो॒चिषा॑ रारपीति मि॒त्रम॑हाः । नक्तं॒ य ई॑मरु॒षो यो दिवा॒ नॄनम॑र्त्यो अरु॒षो यो दिवा॒ नॄन् ॥
sa ī́m rebhó na práti vaste usrā́ḥ śóciṣā rārāpīti mitrám-ahāḥ | náktaṃ ya īm aruṣó yó divā́ nṝ́n amártyo aruṣó yó divā́ nṝ́n ||
He, like a skilled singer of the Word, clothes himself in the luminous Dawns; with his flame he makes the friendly days resound. He who is the Ruddy One by night, and he who by day leads men—immortal, the Ruddy One who by day leads men.
सः । ई॒म् । रे॒भः । न । प्रति॑ । व॒स्ते॒ । उ॒स्राः । शो॒चिषा॑ । र॒र॒पी॒ति॒ । मि॒त्र्ऽअम॑हाः । नक्त॑म् । यः । ई॒म् । अ॒रु॒षः । यः । दिवा॑ । नॄन् । अम॑र्त्यः । अ॒रु॒षः । यः । दिवा॑ । नॄन् ॥सः । ईम् । रेभः । न । प्रति । वस्ते । उस्राः । शोचिषा । ररपीति । मित्र्अमहाः । नक्तम् । यः । ईम् । अरुषः । यः । दिवा । नॄन् । अमर्त्यः । अरुषः । यः । दिवा । नॄन् ॥saḥ | īm | rebhaḥ | na | prati | vaste | usrāḥ | śociṣā | rarapīti | mitr-amahāḥ | naktam | yaḥ | īm | aruṣaḥ | yaḥ | divā | nṝn | amartyaḥ | aruṣaḥ | yaḥ | divā | nṝn