Sukta 6.3
धायोभिर्वा यो युज्येभिरर्कैर्विद्युन्न दविद्योत्स्वेभिः शुष्मैः । शर्धो वा यो मरुतां ततक्ष ऋभुर्न त्वेषो रभसानो अद्यौत् ॥
धायो॑भिर्वा॒ यो युज्ये॑भिर॒र्कैर्वि॒द्युन्न द॑विद्यो॒त्स्वेभि॒: शुष्मै॑: । शर्धो॑ वा॒ यो म॒रुतां॑ त॒तक्ष॑ ऋ॒भुर्न त्वे॒षो र॑भसा॒नो अ॑द्यौत् ॥
dhāyóbhir vā yó yújyebhir arkáir vidyún na davidyót svébhīḥ śúṣmaiḥ | śárdho vā yó marútāṃ tatákṣa ṛbhúr na tvéṣo rabhasā́nó ádyaut ||
Whether by his sustaining powers and yoked hymns he flashes like lightning with his own mights; or whether he has fashioned the host of the Maruts—like an Ṛbhu, keen and swift, he has shone forth today.
धायः॑ऽभिः । वा॒ । यः । युज्ये॑भिः । अ॒र्कैः । वि॒द्युत् । न । द॒वि॒द्यो॒त् । स्वेभिः॑ । शुष्मैः॑ । शर्धः॑ । वा॒ । यः । म॒रुता॑म् । त॒तक्ष॑ । ऋ॒भुः । न । त्वे॒षः । र॒भ॒सा॒नः । अ॒द्यौ॒त् ॥धायःभिः । वा । यः । युज्येभिः । अर्कैः । विद्युत् । न । दविद्योत् । स्वेभिः । शुष्मैः । शर्धः । वा । यः । मरुताम् । ततक्ष । ऋभुः । न । त्वेषः । रभसानः । अद्यौत् ॥dhāyaḥ-bhiḥ | vā | yaḥ | yujyebhiḥ | arkaiḥ | vidyut | na | davidyot | svebhiḥ | śuṣmaiḥ | śardhaḥ | vā | yaḥ | marutām | tatakṣa | ṛbhuḥ | na | tveṣaḥ | rabhasānaḥ | adyaut