Sukta 6.3
स इदस्तेव प्रति धादसिष्यञ्छिशीत तेजोऽयसो न धाराम् । चित्रध्रजतिररतिर्यो अक्तोर्वेर्न द्रुषद्वा रघुपत्मजंहाः ॥
स इदस्ते॑व॒ प्रति॑ धादसि॒ष्यञ्छिशी॑त॒ तेजोऽय॑सो॒ न धारा॑म् । चि॒त्रध्र॑जतिरर॒तिर्यो अ॒क्तोर्वेर्न द्रु॒षद्वा॑ रघु॒पत्म॑जंहाः ॥
sá íd astéva práti dhād asiṣyáñ chīśīta téjo ayáso na dhā́rām | citrá-dhrajatir aratír yó aktór vér na dru-sádvā raghupátma-jaṃhāḥ ||
He sets himself like one facing the goal; sharpening his blaze like an iron edge. With bright streaming movement, untiring, in the night he moves like a bird upon the wood—swift-winged, rapid-footed.
सः । इत् । अस्ता॑ऽइव । प्रति॑ । धा॒त् । अ॒सि॒ष्यन् । शिशी॑त । तेजः॑ । अय॑सः । न । धारा॑म् । चि॒त्रऽध्र॑जतिः । अ॒र॒तिः । यः । अ॒क्तोः । वेः । न । द्रु॒ऽसद्वा॑ । र॒घु॒पत्म॑ऽजंहाः ॥सः । इत् । अस्ताइव । प्रति । धात् । असिष्यन् । शिशीत । तेजः । अयसः । न । धाराम् । चित्रध्रजतिः । अरतिः । यः । अक्तोः । वेः । न । द्रुसद्वा । रघुपत्मजंहाः ॥saḥ | it | astāiva | prati | dhāt | asiṣyan | śiśīta | tejaḥ | ayasaḥ | na | dhārām | citra-dhrajatiḥ | aratiḥ | yaḥ | aktoḥ | veḥ | na | dru-sadvā | raghupatma-jaṃhāḥ