Sukta 6.3
तिग्मं चिदेम महि वर्पो अस्य भसदश्वो न यमसान आसा । विजेहमानः परशुर्न जिह्वां द्रविर्न द्रावयति दारु धक्षत् ॥
ति॒ग्मं चि॒देम॒ महि॒ वर्पो॑ अस्य॒ भस॒दश्वो॒ न य॑मसा॒न आ॒सा । वि॒जेह॑मानः पर॒शुर्न जि॒ह्वां द्र॒विर्न द्रा॑वयति॒ दारु॒ धक्ष॑त् ॥
tigṁáṃ cid éma máhi várpo asyá bhásad áśvo na yamasāná āsā́ | vi-jéhamānaḥ paraśúr na jihvā́ṃ dravír na drāvayati dā́ru dhákṣat ||
Sharp indeed is his onset, great is his form; he pants like a horse straining with its mouth. Lashing his tongue like an axe in motion, like a smelter he melts—he has burned the wood.
ति॒ग्मम् । चि॒त् । एम॑ । महि॑ । वर्पः॑ । अ॒स्य॒ । भस॑त् । अश्वः॑ । न । य॒म॒सा॒न । आ॒सा । वि॒ऽजेह॑मानः । प॒र॒शुः । न । जि॒ह्वाम् । द्र॒विः । न । द्र॒व॒य॒ति॒ । दारु॑ । धक्ष॑त् ॥तिग्मम् । चित् । एम । महि । वर्पः । अस्य । भसत् । अश्वः । न । यमसान । आसा । विजेहमानः । परशुः । न । जिह्वाम् । द्रविः । न । द्रवयति । दारु । धक्षत् ॥tigmam | cit | ema | mahi | varpaḥ | asya | bhasat | aśvaḥ | na | yamasāna | āsā | vi-jehamānaḥ | paraśuḥ | na | jihvām | draviḥ | na | dravayati | dāru | dhakṣat