Sukta 6.29
इन्द्रं वो नरः सख्याय सेपुर्महो यन्तः सुमतये चकानाः । महो हि दाता वज्रहस्तो अस्ति महामु रण्वमवसे यजध्वम् ॥
इन्द्रं॑ वो॒ नर॑: स॒ख्याय॑ सेपुर्म॒हो यन्त॑: सुम॒तये॑ चका॒नाः । म॒हो हि दा॒ता वज्र॑हस्तो॒ अस्ति॑ म॒हामु॑ र॒ण्वमव॑से यजध्वम् ॥
índraṃ vo náraḥ sakhyā́ya sepur mahó yántaḥ su-matáye cakānā́ḥ | mahó hí dātā́ vájra-hasto ásti mahā́m u raṇvám ávase yajadhvam ||
To Indra, O men, for comradeship you have turned, moving to the Greatness, rejoicing in the right mind. For the wielder of the thunder-force is indeed a great giver. Sacrifice to the great, the delightful, for help—so the vast aid may descend into you.
इन्द्र॑म् । वः॒ । नरः॑ । स॒ख्याय॑ । से॒पुः॒ । म॒हः । यन्तः॑ । सु॒ऽम॒तये॑ । च॒का॒नाः । म॒हः । हि । दा॒ता । वज्र॑ऽहस्तः । अस्ति॑ । म॒हाम् । ऊँ॒ इति॑ । र॒ण्वम् । अव॑से । य॒ज॒ध्व॒म् ॥इन्द्रम् । वः । नरः । सख्याय । सेपुः । महः । यन्तः । सुमतये । चकानाः । महः । हि । दाता । वज्रहस्तः । अस्ति । महाम् । ऊँ इति । रण्वम् । अवसे । यजध्वम् ॥indram | vaḥ | naraḥ | sakhyāya | sepuḥ | mahaḥ | yantaḥ | su-mataye | cakānāḥ | mahaḥ | hi | dātā | vajra-hastaḥ | asti | mahām | oṃ iti | raṇvam | avase | yajadhvam