Sukta 6.28
प्रजावतीः सूयवसं रिशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः । मा वः स्तेन ईशत माघशंसः परि वो हेती रुद्रस्य वृज्याः ॥
प्र॒जाव॑तीः सू॒यव॑सं रि॒शन्ती॑: शु॒द्धा अ॒पः सु॑प्रपा॒णे पिब॑न्तीः । मा व॑: स्ते॒न ई॑शत॒ माघशं॑स॒: परि॑ वो हे॒ती रु॒द्रस्य॑ वृज्याः ॥
prajā́vatīḥ su-yávasaṃ riśántīḥ śuddhā́ ápaḥ su-prapāṇé píbantīḥ | mā vaḥ stená īśata mā́gha-śaṃsaḥ pári vo hetī́ rudrásya vṛjyāḥ ||
O Rays, rich in progeny, grazing the good pasture, drinking the pure waters at the fair drinking-place—let no thief rule over you, let no evil-speaker prevail. Around you may the missile of Rudra be turned away.
प्र॒जाऽव॑तीः । सु॒ऽयव॑सम् । रि॒शन्तीः॑ । शु॒द्धाः । अ॒पः । सु॒ऽप्र॒पा॒ने । पिब॑न्तीः । मा । वः॒ । स्ते॒नः । ई॒श॒त॒ । मा । अ॒घऽशं॑सः । परि॑ । वः॒ । हे॒तिः । रु॒द्रस्य॑ । वृ॒ज्याः॒ ॥प्रजावतीः । सुयवसम् । रिशन्तीः । शुद्धाः । अपः । सुप्रपाने । पिबन्तीः । मा । वः । स्तेनः । ईशत । मा । अघशंसः । परि । वः । हेतिः । रुद्रस्य । वृज्याः ॥prajāvatīḥ | su-yavasam | riśantīḥ | śuddhāḥ | apaḥ | su-prapāne | pibantīḥ | mā | vaḥ | stenaḥ | īśata | mā | agha-śaṃsaḥ | pari | vaḥ | hetiḥ | rudrasya | vṛjyāḥ