Sukta 6.28
उपेदमुपपर्चनमासु गोषूप पृच्यताम् । उप ऋषभस्य रेतस्युपेन्द्र तव वीर्ये ॥
उपे॒दमु॑प॒पर्च॑नमा॒सु गोषूप॑ पृच्यताम् । उप॑ ऋष॒भस्य॒ रेत॒स्युपे॑न्द्र॒ तव॑ वी॒र्ये॑ ॥
upédám upa-parcánam ā́su góṣū́pa pṛcyatām | úpa ṛṣabhásya rétasy úpéndra táva vī́rye ||
May this act of close-contact and fostering be joined to these Rays; may it be mingled with the seed of the Bull. Near, O Indra, is your hero-force—let it enter here and increase.
उप॑ । इ॒दम् । उ॒प॒ऽपर्च॑नम् । आ॒सु । गोषु॑ । उप॑ । पृ॒च्य॒ता॒म् । उप॑ । ऋ॒ष॒भस्य॑ । रेत॑सि । उप॑ । इ॒न्द्र॒ । तव॑ । वी॒र्ये॑ ॥उप । इदम् । उपपर्चनम् । आसु । गोषु । उप । पृच्यताम् । उप । ऋषभस्य । रेतसि । उप । इन्द्र । तव । वीर्ये ॥upa | idam | upa-parcanam | āsu | goṣu | upa | pṛcyatām | upa | ṛṣabhasya | retasi | upa | indra | tava | vīrye