Sukta 6.28
यूयं गावो मेदयथा कृशं चिदश्रीरं चित्कृणुथा सुप्रतीकम् । भद्रं गृहं कृणुथ भद्रवाचो बृहद्वो वय उच्यते सभासु ॥
यू॒यं गा॑वो मेदयथा कृ॒शं चि॑दश्री॒रं चि॑त्कृणुथा सु॒प्रती॑कम् । भ॒द्रं गृ॒हं कृ॑णुथ भद्रवाचो बृ॒हद्वो॒ वय॑ उच्यते स॒भासु॑ ॥
yūyám gā́vo medáyatha kṛśáṃ cid aśrīráṃ cit kṛṇutha su-pratī́kam | bhadráṃ gṛháṃ kṛṇutha bhadrá-vāco bṛhád vo váya ucyate sabhā́su ||
You, O Rays, make even the lean grow full; even the ill-formed you make fair in visage. You make the house a happy dwelling, you make the speech auspicious; great is the strength of life that is spoken of you in the assemblies.
यू॒यम् । गा॒वः॒ । मे॒द॒य॒थ॒ । कृ॒शम् । चि॒त् । अ॒श्री॒रम् । चि॒त् । कृ॒णु॒थ॒ । सु॒ऽप्रती॑कम् । भ॒द्रम् । गृ॒हम् । कृ॒णु॒थ॒ । भ॒द्र॒ऽवा॒चः॒ । बृ॒हत् । वः॒ । वयः॑ । उ॒च्य॒ते॒ । स॒भासु॑ ॥यूयम् । गावः । मेदयथ । कृशम् । चित् । अश्रीरम् । चित् । कृणुथ । सुप्रतीकम् । भद्रम् । गृहम् । कृणुथ । भद्रवाचः । बृहत् । वः । वयः । उच्यते । सभासु ॥yūyam | gāvaḥ | medayatha | kṛśam | cit | aśrīram | cit | kṛṇutha | su-pratīkam | bhadram | gṛham | kṛṇutha | bhadra-vācaḥ | bṛhat | vaḥ | vayaḥ | ucyate | sabhāsu