Sukta 6.28
गावो भगो गाव इन्द्रो मे अच्छान्गावः सोमस्य प्रथमस्य भक्षः । इमा या गावः स जनास इन्द्र इच्छामीद्धृदा मनसा चिदिन्द्रम् ॥
गावो॒ भगो॒ गाव॒ इन्द्रो॑ मे अच्छा॒न्गाव॒: सोम॑स्य प्रथ॒मस्य॑ भ॒क्षः । इ॒मा या गाव॒: स ज॑नास॒ इन्द्र॑ इ॒च्छामीद्धृ॒दा मन॑सा चि॒दिन्द्र॑म् ॥
gā́vo bhágo gā́va índro me acchān gā́vaḥ sómasya prathamásya bhakṣáḥ | imā́ yā́ gā́vaḥ sá jánāsa índra icchā́mīd hṛdā́ mánasā cid índram ||
The Rays are Bhaga, the delighting portion; the Rays are Indra coming to me. The Rays are the first food of Soma. These Rays that are—those are the people of Indra; and Indra I seek indeed with heart and with mind.
गावः॑ । भगः॑ । गावः॑ । इन्द्रः॑ । मे॒ । अ॒च्छा॒न् । गावः॑ । सोम॑स्य । प्र॒थ॒मस्य॑ । भ॒क्षः । इ॒माः । याः । गावः॑ । सः । ज॒ना॒सः॒ । इन्द्रः॑ । इ॒च्छामि॑ । इत् । हृ॒दा । मन॑सा । चि॒त् । इन्द्र॑म् ॥गावः । भगः । गावः । इन्द्रः । मे । अच्छान् । गावः । सोमस्य । प्रथमस्य । भक्षः । इमाः । याः । गावः । सः । जनासः । इन्द्रः । इच्छामि । इत् । हृदा । मनसा । चित् । इन्द्रम् ॥gāvaḥ | bhagaḥ | gāvaḥ | indraḥ | me | acchān | gāvaḥ | somasya | prathamasya | bhakṣaḥ | imāḥ | yāḥ | gāvaḥ | saḥ | janāsaḥ | indraḥ | icchāmi | it | hṛdā | manasā | cit | indram