Sukta 6.28
न ता अर्वा रेणुककाटो अश्नुते न संस्कृतत्रमुप यन्ति ता अभि । उरुगायमभयं तस्य ता अनु गावो मर्तस्य वि चरन्ति यज्वनः ॥
न ता अर्वा॑ रे॒णुक॑काटो अश्नुते॒ न सं॑स्कृत॒त्रमुप॑ यन्ति॒ ता अ॒भि । उ॒रु॒गा॒यमभ॑यं॒ तस्य॒ ता अनु॒ गावो॒ मर्त॑स्य॒ वि च॑रन्ति॒ यज्व॑नः ॥
ná tā́ arvā́ reṇú-kakāṭo aśnute ná saṃskṛtatrám úpa yanti tā́ abhí | uru-gāyám ábhayam tásya tā́ ánu gā́vo mártasya ví caranti yájvanaḥ ||
No swift assailant, no dust-raising pursuer reaches them; they do not go near the well-laid trap. They follow the wide-going, the fearless—under that protection the Rays move freely through the mortal who offers, ranging without obstruction.
न । ताः । अर्वा॑ । रे॒णुऽक॑काटः । अ॒श्नु॒ते॒ । न । सं॒स्कृ॒त॒ऽत्रम् । उप॑ । य॒न्ति॒ । ताः । अ॒भि । उ॒रु॒ऽगा॒यम् । अभ॑यम् । तस्य॑ । ताः । अनु॑ । गावः॑ । मर्त॑स्य । वि । च॒र॒न्ति॒ । यज्व॑नः ॥न । ताः । अर्वा । रेणुककाटः । अश्नुते । न । संस्कृतत्रम् । उप । यन्ति । ताः । अभि । उरुगायम् । अभयम् । तस्य । ताः । अनु । गावः । मर्तस्य । वि । चरन्ति । यज्वनः ॥na | tāḥ | arvā | reṇu-kakāṭaḥ | aśnute | na | saṃskṛta-tram | upa | yanti | tāḥ | abhi | uru-gāyam | abhayam | tasya | tāḥ | anu | gāvaḥ | martasya | vi | caranti | yajvanaḥ