Sukta 6.28
न ता नशन्ति न दभाति तस्करो नासामामित्रो व्यथिरा दधर्षति । देवाँश्च याभिर्यजते ददाति च ज्योगित्ताभिः सचते गोपतिः सह ॥
न ता न॑शन्ति॒ न द॑भाति॒ तस्क॑रो॒ नासा॑मामि॒त्रो व्यथि॒रा द॑धर्षति । दे॒वाँश्च॒ याभि॒र्यज॑ते॒ ददा॑ति च॒ ज्योगित्ताभि॑: सचते॒ गोप॑तिः स॒ह ॥
ná tā́ naśanti ná dabhāti taskaráḥ ná āsām āmitró vyáthir ā dadharṣati | devā́ṃś ca yā́bhir yájate dádāti ca jyók it tā́bhiḥ sacate gó-patiḥ sahá ||
These Rays (the Cows of Light) do not perish; no thief can deceive them. No hostile power, no shaking fear can overpower them. With those very powers by which the seeker offers to the Gods and also gives, with those the Lord of the Rays (the true Guardian within) abides and joins for ever.
न । ताः । न॒श॒न्ति॒ । न । द॒भा॒ति॒ । तस्क॑रः । न । आ॒सा॒म् । आ॒मि॒त्रः । व्यथिः॑ । आ । द॒ध॒र्ष॒ति॒ । दे॒वान् । च॒ । याभिः॑ । यज॑ते । ददा॑ति । च॒ । ज्योक् । इत् । ताभिः॑ । स॒च॒ते॒ । गोऽप॑तिः । स॒ह ॥न । ताः । नशन्ति । न । दभाति । तस्करः । न । आसाम् । आमित्रः । व्यथिः । आ । दधर्षति । देवान् । च । याभिः । यजते । ददाति । च । ज्योक् । इत् । ताभिः । सचते । गोपतिः । सह ॥na | tāḥ | naśanti | na | dabhāti | taskaraḥ | na | āsām | āmitraḥ | vyathiḥ | ā | dadharṣati | devān | ca | yābhiḥ | yajate | dadāti | ca | jyok | it | tābhiḥ | sacate | go--patiḥ | saha