Sukta 6.28
इन्द्रो यज्वने पृणते च शिक्षत्युपेद्ददाति न स्वं मुषायति । भूयोभूयो रयिमिदस्य वर्धयन्नभिन्ने खिल्ये नि दधाति देवयुम् ॥
इन्द्रो॒ यज्व॑ने पृण॒ते च॑ शिक्ष॒त्युपेद्द॑दाति॒ न स्वं मु॑षायति । भूयो॑भूयो र॒यिमिद॑स्य व॒र्धय॒न्नभि॑न्ने खि॒ल्ये नि द॑धाति देव॒युम् ॥
índro yájvane pṛṇaté ca śíkṣaty upéd dadāti ná sváṃ muṣāyati | bhū́yo-bhūyo rayím íd asya várdhayann abhínne khilyé ní dadhāti devayúm ||
Indra trains the sacrificer who gives and fills; he comes near and grants—he does not steal what is one’s own. Again and again he increases this one’s rayi, and in the unbroken open field he establishes the god-seeking soul.
इन्द्रः॑ । यज्व॑ने । पृ॒ण॒ते । च॒ । शि॒क्ष॒ति॒ । उप॑ । इत् । द॒दा॒ति॒ । न । स्वम् । मु॒षा॒य॒ति॒ । भूयः॑ऽभूयः । र॒यिम् । इत् । अ॒स्य॒ । व॒र्धय॑न् । अभि॑न्ने । खि॒ल्ये । नि । द॒धा॒ति॒ । दे॒व॒ऽयुम् ॥इन्द्रः । यज्वने । पृणते । च । शिक्षति । उप । इत् । ददाति । न । स्वम् । मुषायति । भूयःभूयः । रयिम् । इत् । अस्य । वर्धयन् । अभिन्ने । खिल्ये । नि । दधाति । देवयुम् ॥indraḥ | yajvane | pṛṇate | ca | śikṣati | upa | it | dadāti | na | svam | muṣāyati | bhūyaḥ-bhūyaḥ | rayim | it | asya | vardhayan | abhinne | khilye | ni | dadhāti | deva-yum