Sukta 6.28
आ गावो अग्मन्नुत भद्रमक्रन्त्सीदन्तु गोष्ठे रणयन्त्वस्मे । प्रजावतीः पुरुरूपा इह स्युरिन्द्राय पूर्वीरुषसो दुहानाः ॥
आ गावो॑ अग्मन्नु॒त भ॒द्रम॑क्र॒न्त्सीद॑न्तु गो॒ष्ठे र॒णय॑न्त्व॒स्मे । प्र॒जाव॑तीः पुरु॒रूपा॑ इ॒ह स्यु॒रिन्द्रा॑य पू॒र्वीरु॒षसो॒ दुहा॑नाः ॥
ā́ gā́vo agmann utá bhadrám akran sīdántu goṣṭhé raṇáyantv asmè | prajā́vatīḥ pururū́pā ihá syur índrāya pū́vīr uṣáso dúhānāḥ ||
The cows have come, and they have made the good; let them settle in the luminous stall and bring delight to us. May they be here, rich in progeny and of many forms, like ancient Dawns milking for Indra—streams of light yielding their sweetness.
आ । गावः॑ । अ॒ग्म॒न् । उ॒त । भ॒द्रम् । अ॒क्र॒न् । सीद॑न्तु । गो॒ऽस्थे । र॒णय॑न्तु । अ॒स्मे इति॑ । प्र॒जाऽव॑तीः । पु॒रु॒ऽरूपाः॑ । इ॒ह । स्युः॒ । इन्द्रा॑य । पू॒र्वीः । उ॒षसः॑ । दुहा॑नाः ॥आ । गावः । अग्मन् । उत । भद्रम् । अक्रन् । सीदन्तु । गोस्थे । रणयन्तु । अस्मे इति । प्रजावतीः । पुरुरूपाः । इह । स्युः । इन्द्राय । पूर्वीः । उषसः । दुहानाः ॥ā | gāvaḥ | agman | uta | bhadram | akran | sīdantu | go--sthe | raṇayantu | asme iti | prajāvatīḥ | puru-rūpāḥ | iha | syuḥ | indrāya | pūrvīḥ | uṣasaḥ | duhānāḥ