Sukta 6.27
त्रिंशच्छतं वर्मिण इन्द्र साकं यव्यावत्यां पुरुहूत श्रवस्या । वृचीवन्तः शरवे पत्यमानाः पात्रा भिन्दाना न्यर्थान्यायन् ॥
त्रिं॒शच्छ॑तं व॒र्मिण॑ इन्द्र सा॒कं य॒व्याव॑त्यां पुरुहूत श्रव॒स्या । वृ॒चीव॑न्त॒: शर॑वे॒ पत्य॑माना॒: पात्रा॑ भिन्दा॒ना न्य॒र्थान्या॑यन् ॥
triṃśácchatáṃ varmíṇa indra sā́kaṃ yavyā́vatyāṃ puruhūta śravasyā́ | vṛcī́vantaḥ śárave pátyamānāḥ pā́trā bhindānā́ ny arthā́ny āyan ||
Thirty hundred armored ones together, O Indra much-invoked, in Yavyāvatī for glory—Vṛcīvant’s men, rushing to the onslaught, shattered their vessels and went away with their aims undone.
त्रिं॒शत्ऽश॑तम् । व॒र्मिणः॑ । इ॒न्द्र॒ । सा॒कम् । य॒व्याऽव॑त्याम् । पु॒रु॒ऽहू॒त॒ । श्र॒व॒स्या । वृ॒चीव॑न्तः । शर॑वे । पत्य॑मानाः । पात्रा॑ । भि॒न्दा॒नाः । नि॒ऽअ॒र्थानि॑ । आ॒य॒न् ॥त्रिंशत्शतम् । वर्मिणः । इन्द्र । साकम् । यव्यावत्याम् । पुरुहूत । श्रवस्या । वृचीवन्तः । शरवे । पत्यमानाः । पात्रा । भिन्दानाः । निअर्थानि । आयन् ॥triṃśat-śatam | varmiṇaḥ | indra | sākam | yavyāvatyām | puru-hūta | śravasyā | vṛcīvantaḥ | śarave | patyamānāḥ | pātrā | bhindānāḥ | ni-arthāni | āyan