Sukta 6.27
वधीदिन्द्रो वरशिखस्य शेषोऽभ्यावर्तिने चायमानाय शिक्षन् । वृचीवतो यद्धरियूपीयायां हन्पूर्वे अर्धे भियसापरो दर्त् ॥
वधी॒दिन्द्रो॑ व॒रशि॑खस्य॒ शेषो॑ऽभ्याव॒र्तिने॑ चायमा॒नाय॒ शिक्ष॑न् । वृ॒चीव॑तो॒ यद्ध॑रियू॒पीया॑यां॒ हन्पूर्वे॒ अर्धे॑ भि॒यसाप॑रो॒ दर्त् ॥
vadhīd índro varaśikhasya śéṣo 'bhyāvartíne cāyamānā́ya śíkṣan | vṛcī́vato yád dhariyūpī́yāyāṃ hán pū́rve árdhe bhiyásā́paro dart ||
Indra slew Śeṣa of Varaśikha, teaching the one who turns back upon him and the one who advances. When he struck the Vṛcīvant at Hariyūpīyā, in the first part the foe broke in fear and fled away thereafter.
वधी॑त् । इन्द्रः॑ । व॒रऽशि॑खस्य । शेषः॑ । अ॒भि॒ऽआ॒व॒र्तिने॑ । चा॒य॒मा॒नाय॑ । शिक्ष॑न् । वृ॒चीव॑तः । यत् । ह॒रि॒यू॒पीया॑याम् । हन् । पूर्वे॑ । अर्धे॑ । भि॒यसा॑ । अप॑रः । दर्त् ॥वधीत् । इन्द्रः । वरशिखस्य । शेषः । अभिआवर्तिने । चायमानाय । शिक्षन् । वृचीवतः । यत् । हरियूपीयायाम् । हन् । पूर्वे । अर्धे । भियसा । अपरः । दर्त् ॥vadhīt | indraḥ | vara-śikhasya | śeṣaḥ | abhi-āvartine | cāyamānāya | śikṣan | vṛcīvataḥ | yat | hariyūpīyāyām | han | pūrve | ardhe | bhiyasā | aparaḥ | darta