Sukta 6.27
सदस्य मदे सद्वस्य पीताविन्द्रः सदस्य सख्ये चकार । रणा वा ये निषदि सत्ते अस्य पुरा विविद्रे सदु नूतनासः ॥
सद॑स्य॒ मदे॒ सद्व॑स्य पी॒ताविन्द्र॒: सद॑स्य स॒ख्ये च॑कार । रणा॑ वा॒ ये नि॒षदि॒ सत्ते अ॑स्य पु॒रा वि॑विद्रे॒ सदु॒ नूत॑नासः ॥
sád asya máde sádv asya pītā́v índraḥ sád asya sakhyé cakāra | raṇā́ vā yé niṣádi sát te asya purā́ vívidre sádu nū́tanāsaḥ ||
True is his ecstasy, true his drinking of the delight; true is what Indra has fashioned by friendship. True is what those who sit close in the battle found of him from of old—true too what the new seekers find now.
सत् । अ॒स्य॒ । मदे॑ । सत् । ऊँ॒ इति॑ । अ॒स्य॒ । पी॒तौ । इन्द्रः॑ । सत् । अ॒स्य॒ । स॒ख्ये । च॒का॒र॒ । रणाः॑ । वा॒ । ये । नि॒ऽसदि॑ । सत् । ते । अ॒स्य॒ । पु॒रा । वि॒वि॒द्रे॒ । सत् । ऊँ॒ इति॑ । नूत॑नासः ॥सत् । अस्य । मदे । सत् । ऊँ इति । अस्य । पीतौ । इन्द्रः । सत् । अस्य । सख्ये । चकार । रणाः । वा । ये । निसदि । सत् । ते । अस्य । पुरा । विविद्रे । सत् । ऊँ इति । नूतनासः ॥sat | asya | made | sat | oṃ iti | asya | pītau | indraḥ | sat | asya | sakhye | cakāra | raṇāḥ | vā | ye | ni-sadi | sat | te | asya | purā | vividre | sat | oṃ iti | nūtanāsaḥ