Sukta 6.27
किमस्य मदे किम्वस्य पीताविन्द्रः किमस्य सख्ये चकार । रणा वा ये निषदि किं ते अस्य पुरा विविद्रे किमु नूतनासः ॥
किम॑स्य॒ मदे॒ किम्व॑स्य पी॒ताविन्द्र॒: किम॑स्य स॒ख्ये च॑कार । रणा॑ वा॒ ये नि॒षदि॒ किं ते अ॑स्य पु॒रा वि॑विद्रे॒ किमु॒ नूत॑नासः ॥
kím asya máde kímv asya pītā́v índraḥ kím asya sakhyé cakāra | raṇā́ vā yé niṣádi kím te asya purā́ vívidre kím u nū́tanāsaḥ ||
What is the secret of his ecstasy, and what of his drinking of the delight? What has Indra wrought by his friendship? What did those who sit close in the battle discover of him from of old—and what do the new seekers discover now?
किम् । अ॒स्य॒ । मदे॑ । किम् । ऊँ॒ इति॑ । अ॒स्य॒ । पी॒तौ । इन्द्रः॑ । किम् । अ॒स्य॒ । स॒ख्ये । च॒का॒र॒ । रणाः॑ । वा॒ । ये । नि॒ऽसदि॑ । किम् । ते । अ॒स्य॒ । पु॒रा । वि॒वि॒द्रे॒ । किम् । ऊँ॒ इति॑ । नूत॑नासः ॥किम् । अस्य । मदे । किम् । ऊँ इति । अस्य । पीतौ । इन्द्रः । किम् । अस्य । सख्ये । चकार । रणाः । वा । ये । निसदि । किम् । ते । अस्य । पुरा । विविद्रे । किम् । ऊँ इति । नूतनासः ॥kim | asya | made | kim | oṃ iti | asya | pītau | indraḥ | kim | asya | sakhye | cakāra | raṇāḥ | vā | ye | ni-sadi | ki m | te | asya | purā | vividre | kim | oṃ iti | nūtanāsaḥ