Sukta 6.26
त्वं रथं प्र भरो योधमृष्वमावो युध्यन्तं वृषभं दशद्युम् । त्वं तुग्रं वेतसवे सचाहन्त्वं तुजिं गृणन्तमिन्द्र तूतोः ॥
त्वं रथं॒ प्र भ॑रो यो॒धमृ॒ष्वमावो॒ युध्य॑न्तं वृष॒भं दश॑द्युम् । त्वं तुग्रं॑ वेत॒सवे॒ सचा॑ह॒न्त्वं तुजिं॑ गृ॒णन्त॑मिन्द्र तूतोः ॥
tváṃ ráthaṃ prá bharō yodhám ṛṣvám ā́vo yúdhyantaṃ vṛṣabháṃ dáśa-dyum | tváṃ túgraṃ vetasáve sácāhant tváṃ tújiṃ gṛṇántaṃ indra tūtoḥ ||
You bring forward the chariot and you aid the lofty fighter, the bull of tenfold splendour as he battles. You struck down Tugra together with Vetasava; you help Tuji, the singer of your praise, O Indra (in the line of Tūtu).
त्वम् । रथ॑म् । प्र । भ॒रः॒ । यो॒धम् । ऋ॒ष्वम् । आवः॑ । युध्य॑न्तम् । वृ॒ष॒भम् । दश॑ऽद्युम् । त्वम् । तुग्र॑म् । वे॒त॒सवे॑ । सचा॑ । अ॒ह॒न् । त्वम् । तुजि॑म् । गृ॒णन्त॑म् । इ॒न्द्र॒ । तू॒तो॒रिति॑ तूतोः ॥त्वम् । रथम् । प्र । भरः । योधम् । ऋष्वम् । आवः । युध्यन्तम् । वृषभम् । दशद्युम् । त्वम् । तुग्रम् । वेतसवे । सचा । अहन् । त्वम् । तुजिम् । गृणन्तम् । इन्द्र । तूतोरिति तूतोः ॥tvam | ratham | pra | bharaḥ | yodham | ṛṣvam | āvaḥ | yudhyantam | vṛṣabham | daśa-dyum | tvam | tugram | vetasave | sacā | ahan | tvam | tujim | gṛṇantam | indra | tūtorititūtoḥ