Sukta 6.26
त्वं कविं चोदयोऽर्कसातौ त्वं कुत्साय शुष्णं दाशुषे वर्क् । त्वं शिरो अमर्मणः पराहन्नतिथिग्वाय शंस्यं करिष्यन् ॥
त्वं क॒विं चो॑दयो॒ऽर्कसा॑तौ॒ त्वं कुत्सा॑य॒ शुष्णं॑ दा॒शुषे॑ वर्क् । त्वं शिरो॑ अम॒र्मण॒: परा॑हन्नतिथि॒ग्वाय॒ शंस्यं॑ करि॒ष्यन् ॥
tváṃ kavíṃ codayo ’rká-sātau tváṃ kútsāya śúṣṇaṃ dāśúṣe várk | tváṃ śíro amármaṇaḥ párāhann atithi-gvā́ya śáṃsyaṃ kariṣyán ||
You spur on the seer in the winning of the hymn; you smite Śuṣṇa for Kutsā who offers. You struck off the head of the unyielding one, to make a deed worthy to be proclaimed for Atithigva.
त्वम् । क॒विम् । चो॒द॒यः॒ । अ॒र्कऽसा॑तौ । त्वम् । कुत्सा॑य । शुष्ण॑म् । दा॒शुषे॑ । व॒र्क् । त्वम् । शिरः॑ । अ॒म॒र्मणः॑ । परा॑ । अ॒ह॒न् । अ॒ति॒थि॒ऽग्वाय॑ । शंस्य॑म् । क॒रि॒ष्यन् ॥त्वम् । कविम् । चोदयः । अर्कसातौ । त्वम् । कुत्साय । शुष्णम् । दाशुषे । वर्क् । त्वम् । शिरः । अमर्मणः । परा । अहन् । अतिथिग्वाय । शंस्यम् । करिष्यन् ॥tvam | kavim | codayaḥ | arka-sātau | tvam | kutsāya | śuṣṇam | dāśuṣe | varka | tvam | śiraḥ | amarmaṇaḥ | parā | ahan | atithi-gvāya | śaṃsyam | kariṣyan