Sukta 6.26
त्वां वाजी हवते वाजिनेयो महो वाजस्य गध्यस्य सातौ । त्वां वृत्रेष्विन्द्र सत्पतिं तरुत्रं त्वां चष्टे मुष्टिहा गोषु युध्यन् ॥
त्वां वा॒जी ह॑वते वाजिने॒यो म॒हो वाज॑स्य॒ गध्य॑स्य सा॒तौ । त्वां वृ॒त्रेष्वि॑न्द्र॒ सत्प॑तिं॒ तरु॑त्रं॒ त्वां च॑ष्टे मुष्टि॒हा गोषु॒ युध्य॑न् ॥
tvā́ṃ vājī́ havate vājineyó mahó vā́jasya gádhyasya sātáu | tvā́ṃ vṛtréṣv indra sát-patiṃ táru-traṃ tvā́ṃ caṣṭe muṣṭi-hā́ góṣu yúdhyān ||
The seeker of force calls you, O winner of force, for the gaining of the great and firmly founded plenitude. In the battles with the obstructers, O Indra, he beholds you as the true lord, the saviour who carries across; you are seen as the smiter with the fist, fighting for the rays of Light.
त्वाम् । वा॒जी । ह॒व॒ते॒ । वा॒जि॒ने॒यः । म॒हः । वाज॑स्य । गध्य॑स्य । सा॒तौ । त्वाम् । वृ॒त्रेषु॑ । इ॒न्द्र॒ । सत्ऽप॑तिम् । तरु॑त्रम् । त्वाम् । च॒ष्टे॒ । मु॒ष्टि॒ऽहा । गोषु॑ । युध्य॑न् ॥त्वाम् । वाजी । हवते । वाजिनेयः । महः । वाजस्य । गध्यस्य । सातौ । त्वाम् । वृत्रेषु । इन्द्र । सत्पतिम् । तरुत्रम् । त्वाम् । चष्टे । मुष्टिहा । गोषु । युध्यन् ॥tvām | vājī | havate | vājineyaḥ | mahaḥ | vājasya | gadhyasya | sātau | tvām | vṛtreṣu | indra | sat-patim | tarutram | tvām | caṣṭe | muṣṭi-hā | goṣu | yudhyan