Sukta 6.24
गम्भीरेण न उरुणामत्रिन्प्रेषो यन्धि सुतपावन्वाजान् । स्था ऊ षु ऊर्ध्व ऊती अरिषण्यन्नक्तोर्व्युष्टौ परितक्म्यायाम् ॥
ग॒म्भी॒रेण॑ न उ॒रुणा॑मत्रि॒न्प्रेषो य॑न्धि सुतपाव॒न्वाजा॑न् । स्था ऊ॒ षु ऊ॒र्ध्व ऊ॒ती अरि॑षण्यन्न॒क्तोर्व्यु॑ष्टौ॒ परि॑तक्म्यायाम् ॥
gambhīréṇa na urúṇā amatrin préṣo yandhi suta-pāvan vā́jān | sthā́ ū ṣú ūrdhvó ūtī́ áriṣaṇyann aktór vyùṣṭau pári-takmyāyām ||
With your deep and wide protection, O undeceived one, set in motion for us the forward impulsions and the plenitudes of force purified in the pressing. Stand upright with your guarding help, unassailable, through the night and at the breaking of dawn, encompassing us when the wasting weakness tries to creep in.
ग॒म्भी॒रेण॑ । नः॒ । उ॒रुणा॑ । अ॒म॒त्रि॒न् । प्र । इ॒षः । य॒न्धि॒ । सु॒त॒ऽपा॒व॒न् । वाजा॑न् । स्थाः । ऊँ॒ इति॑ । सु । ऊ॒र्ध्वः । ऊ॒ती । अरि॑षण्यन् । अ॒क्तोः । विऽउ॑ष्टौ । परि॑ऽतक्म्यायाम् ॥गम्भीरेण । नः । उरुणा । अमत्रिन् । प्र । इषः । यन्धि । सुतपावन् । वाजान् । स्थाः । ऊँ इति । सु । ऊर्ध्वः । ऊती । अरिषण्यन् । अक्तोः । विउष्टौ । परितक्म्यायाम् ॥gambhīreṇa | naḥ | uruṇā | amatrin | pra | iṣaḥ | yandhi | suta-pāvan | vājān | sthāḥ | oṃ iti | su | ūrdhvaḥ | ūtī | ariṣaṇyan | aktoḥ | vi-uṣṭau | pari-takmyāyām