Sukta 6.24
सचस्व नायमवसे अभीक इतो वा तमिन्द्र पाहि रिषः । अमा चैनमरण्ये पाहि रिषो मदेम शतहिमाः सुवीराः ॥
सच॑स्व ना॒यमव॑से अ॒भीक॑ इ॒तो वा॒ तमि॑न्द्र पाहि रि॒षः । अ॒मा चै॑न॒मर॑ण्ये पाहि रि॒षो मदे॑म श॒तहि॑माः सु॒वीरा॑: ॥
sácasva nāyám ávase abhī́ka itó vā tám indra pāhi riṣáḥ | amā́ cainam áraṇye pāhi riṣó mádem śatá-himāḥ su-vī́rāḥ ||
Join with this leader for his safeguarding, close at hand; or from here, protect him, O Indra, from harm. Protect him from harm at home and also in the wilderness, so that we may rejoice—possessing a hundred winters, rich in heroic energies.
सच॑स्व । ना॒यम् । अव॑से । अ॒भीके॑ । इ॒तः । वा॒ । तम् । इ॒न्द्र॒ । पा॒हि॒ । रि॒षः । अ॒मा । च॒ । ए॒न॒म् । अर॑ण्ये । पा॒हि॒ । रि॒षः । मदे॑म । श॒तऽहि॑माः । सु॒ऽवीराः॑ ॥सचस्व । नायम् । अवसे । अभीके । इतः । वा । तम् । इन्द्र । पाहि । रिषः । अमा । च । एनम् । अरण्ये । पाहि । रिषः । मदेम । शतहिमाः । सुवीराः ॥sacasva | nāyam | avase | abhīke | itaḥ | vā | tam | indra | pāhi | riṣaḥ | amā | ca | enam | araṇye | pāhi | riṣaḥ | madema | śata-himāḥ | su-vīrāḥ