Sukta 6.24
न वीळवे नमते न स्थिराय न शर्धते दस्युजूताय स्तवान् । अज्रा इन्द्रस्य गिरयश्चिदृष्वा गम्भीरे चिद्भवति गाधमस्मै ॥
न वी॒ळवे॒ नम॑ते॒ न स्थि॒राय॒ न शर्ध॑ते॒ दस्यु॑जूताय स्त॒वान् । अज्रा॒ इन्द्र॑स्य गि॒रय॑श्चिदृ॒ष्वा ग॑म्भी॒रे चि॑द्भवति गा॒धम॑स्मै ॥
ná vīḷáve námate ná sthirā́ya ná śárdhate dasyú-jūtāya stavā́n | ájrā́ índrasya gírayas cid ṛṣvā́ gambhīré cid bhávati gā́dham asmai ||
The hymn of affirmation does not bow to the weak, nor to the merely stable, nor does it yield to the pressure of those driven by the Dasyu-force. Even the unshaken mountains of Indra, though lofty, become a ford for him—even what is deep becomes passable for that Power.
न । वी॒ळवे॑ । नम॑ते । न । स्थि॒राय॑ । न । शर्ध॑ते । दस्यु॑ऽजूताय । स्त॒वान् । अज्राः॑ । इन्द्र॑स्य । गि॒रयः॑ । चित् । ऋ॒ष्वाः । ग॒म्भी॒रे । चि॒त् । भ॒व॒ति॒ । गा॒धम् । अ॒स्मै॒ ॥न । वीळवे । नमते । न । स्थिराय । न । शर्धते । दस्युजूताय । स्तवान् । अज्राः । इन्द्रस्य । गिरयः । चित् । ऋष्वाः । गम्भीरे । चित् । भवति । गाधम् । अस्मै ॥na | vīḷave | namate | na | sthirāya | na | śardhate | dasyu-jūtāya | stavān | ajrāḥ | indrasya | girayaḥ | cit | ṛṣvāḥ | gambhīre | cit | bhavati | gādham | asmai