Sukta 6.24
न यं जरन्ति शरदो न मासा न द्याव इन्द्रमवकर्शयन्ति । वृद्धस्य चिद्वर्धतामस्य तनूः स्तोमेभिरुक्थैश्च शस्यमाना ॥
न यं जर॑न्ति श॒रदो॒ न मासा॒ न द्याव॒ इन्द्र॑मवक॒र्शय॑न्ति । वृ॒द्धस्य॑ चिद्वर्धतामस्य त॒नूः स्तोमे॑भिरु॒क्थैश्च॑ श॒स्यमा॑ना ॥
ná yaṃ járanti śarádo ná māsā́ ná dyā́va índram avakarśáyanti | vṛ́ddhasya cid vardhatām asya tanū́ḥ stómebhir uktháiś ca śasyámānā ||
The seasons do not wear him out, nor the months; the days do not draw Indra down. Even of the grown and ancient one, may his body of power increase—praised and made manifest by our hymns and solemn utterances.
न । यम् । जर॑न्ति । श॒रदः॑ । न । मासाः॑ । न । द्यावः॑ । इन्द्र॑म् । अ॒व॒ऽक॒र्शय॑न्ति । वृ॒द्धस्य॑ । चि॒त् । व॒र्ध॒ता॒म् । अ॒स्य॒ । त॒नूः । स्तोमे॑भिः । उ॒क्थैः । च॒ । श॒स्यमा॑ना ॥न । यम् । जरन्ति । शरदः । न । मासाः । न । द्यावः । इन्द्रम् । अवकर्शयन्ति । वृद्धस्य । चित् । वर्धताम् । अस्य । तनूः । स्तोमेभिः । उक्थैः । च । शस्यमाना ॥na | yam | jaranti | śaradaḥ | na | māsāḥ | na | dyāvaḥ | indram | ava-karśayanti | vṛddhasya | cit | vardhatām | asya | tanūḥ | stomebhiḥ | ukthaiḥ | ca | śasyamānā