Sukta 6.24
वि त्वदापो न पर्वतस्य पृष्ठादुक्थेभिरिन्द्रानयन्त यज्ञैः । तं त्वाभिः सुष्टुतिभिर्वाजयन्त आजिं न जग्मुर्गिर्वाहो अश्वाः ॥
वि त्वदापो॒ न पर्व॑तस्य पृ॒ष्ठादु॒क्थेभि॑रिन्द्रानयन्त य॒ज्ञैः । तं त्वा॒भिः सु॑ष्टु॒तिभि॑र्वा॒जय॑न्त आ॒जिं न ज॑ग्मुर्गिर्वाहो॒ अश्वा॑: ॥
ví tvad ā́po na párvatasya pṛṣṭhā́d ukthebhir indrānayanta yajñáih | táṃ tvābhíḥ suṣṭutíbhir vājáyanta ājím na jagmur girvāho áśvāḥ ||
From thee the waters break forth as from the back of a mountain; by hymns and offerings they have led Indra onward. Thee they urge with well-fashioned praises toward plenitude, as horses of the word carry one to the winning of the course.
वि । त्वत् । आपः॑ । न । पर्व॑तस्य । पृ॒ष्ठात् । उ॒क्थेभिः॑ । इ॒न्द्र॒ । अ॒न॒य॒न्त॒ । य॒ज्ञैः । तम् । त्वा॒ । आ॒भिः । सु॒स्तु॒तिऽभिः॑ । वा॒जय॑न्तः । आ॒जिम् । न । ज॒ग्मुः॒ । गि॒र्वा॒हः॒ । अश्वाः॑ ॥वि । त्वत् । आपः । न । पर्वतस्य । पृष्ठात् । उक्थेभिः । इन्द्र । अनयन्त । यज्ञैः । तम् । त्वा । आभिः । सुस्तुतिभिः । वाजयन्तः । आजिम् । न । जग्मुः । गिर्वाहः । अश्वाः ॥vi | tvat | āpaḥ | na | parvatasya | pṛṣṭhāt | ukthebhiḥ | indra | anayanta | yajñaiḥ | tam | tvā | ābhiḥ | sustuti-bhiḥ | vājayantaḥ | ājim | na | jagmuḥ | girvāhaḥ | aśvāḥ