Sukta 6.24
अन्यदद्य कर्वरमन्यदु श्वोऽसच्च सन्मुहुराचक्रिरिन्द्रः । मित्रो नो अत्र वरुणश्च पूषार्यो वशस्य पर्येतास्ति ॥
अ॒न्यद॒द्य कर्व॑रम॒न्यदु॒ श्वोऽस॑च्च॒ सन्मुहु॑राच॒क्रिरिन्द्र॑: । मि॒त्रो नो॒ अत्र॒ वरु॑णश्च पू॒षार्यो वश॑स्य पर्ये॒तास्ति॑ ॥
anyád adyá kárvaram anyád u śvó ’sac ca sán múhur ā́ cakrir índraḥ | mitró no átra váruṇaś ca pūṣā́ryó váśasya pariyétā́sti ||
One thing today, another tomorrow—again and again Indra has made what was not into what is. Here for us are Mitra and Varuṇa and Pūṣan: Aryaman is the one who moves around and leads us in the seeking of mastery and true possession.
अ॒न्यत् । अ॒द्य । कर्व॑रम् । अ॒न्यत् । ऊँ॒ इति॑ । श्वः । अस॑त् । च॒ । सत् । मुहुः॑ । आ । च॒क्रिः । इन्द्रः॑ । मि॒त्रः । नः॒ । अत्र॑ । वरु॑णः । च॒ । पू॒षा । अ॒र्यः । वश॑स्य । प॒रि॒ऽए॒ता । अ॒स्ति॒ ॥अन्यत् । अद्य । कर्वरम् । अन्यत् । ऊँ इति । श्वः । असत् । च । सत् । मुहुः । आ । चक्रिः । इन्द्रः । मित्रः । नः । अत्र । वरुणः । च । पूषा । अर्यः । वशस्य । परिएता । अस्ति ॥anyat | adya | karvaram | anyat | oṃ iti | śvaḥ | asat | ca | sat | muhuḥ | ā | cakriḥ | indraḥ | mitraḥ | naḥ | atra | varuṇaḥ | ca | pūṣā | aryaḥ | vaśasya | pari-etā | asti