Sukta 6.24
शचीवतस्ते पुरुशाक शाका गवामिव स्रुतयः संचरणीः । वत्सानां न तन्तयस्त इन्द्र दामन्वन्तो अदामानः सुदामन् ॥
शची॑वतस्ते पुरुशाक॒ शाका॒ गवा॑मिव स्रु॒तय॑: सं॒चर॑णीः । व॒त्सानां॒ न त॒न्तय॑स्त इन्द्र॒ दाम॑न्वन्तो अदा॒मान॑: सुदामन् ॥
śacī́vatas te puruśāka śā́kā gavā́m iva srutáyaḥ saṃcaráṇīḥ | vatsā́nāṃ na tantáyas ta indra dā́manvanto adā́mānaḥ sudāman ||
O thou of effective power, O many-branched one, thy branches are like the streaming tracks of the cows, moving together in their courses. Like the threads that bind the calves, O Indra, thy linkings hold firm—unbroken, O good establisher of the bonds.
शची॑ऽवतः । ते॒ । पु॒रु॒ऽशा॒क॒ । शाकाः॑ । गवा॑म्ऽइव । स्रु॒तयः॑ । स॒म्ऽचर॑णीः । व॒त्साना॑म् । न । त॒न्तयः॑ । ते॒ । इ॒न्द्र॒ । दाम॑न्ऽवन्तः । अ॒दा॒मानः॑ । सु॒ऽदा॒म॒न् ॥शचीवतः । ते । पुरुशाक । शाकाः । गवाम्इव । स्रुतयः । सम्चरणीः । वत्सानाम् । न । तन्तयः । ते । इन्द्र । दामन्वन्तः । अदामानः । सुदामन् ॥śacī-vataḥ | te | puru-śāka | śākāḥ | gavām-iva | srutayaḥ | sam-caraṇīḥ | vatsānām | na | tantayaḥ | te | indra | dāman-vantaḥ | adāmānaḥ | su-dāman