Sukta 6.24
अक्षो न चक्र्योः शूर बृहन्प्र ते मह्ना रिरिचे रोदस्योः । वृक्षस्य नु ते पुरुहूत वया व्यूतयो रुरुहुरिन्द्र पूर्वीः ॥
अक्षो॒ न च॒क्र्यो॑: शूर बृ॒हन्प्र ते॑ म॒ह्ना रि॑रिचे॒ रोद॑स्योः । वृ॒क्षस्य॒ नु ते॑ पुरुहूत व॒या व्यू॒३॒॑तयो॑ रुरुहुरिन्द्र पू॒र्वीः ॥
ákṣo na cakryóḥ śūra bṛhán prá te mahnā́ ririce ródasyoḥ | vṛkṣásya nú te puruhūta vayā́ vy ù̄táyo ruruhur indra pūrvī́ḥ ||
Like the axle of the two wheels, O hero, vast in being, thou hast filled out by thy greatness the two worlds. As branches of a tree, O Many-invoked, thy strengths and thy helpings have grown out wide, O Indra, from of old.
अक्षः॑ । न । च॒क्र्योः॑ । शू॒र॒ । बृ॒हन् । प्र । ते॒ । म॒ह्ना । रि॒रि॒चे॒ । रोद॑स्योः । वृ॒क्षस्य॑ । नु । ते॒ । पु॒रु॒ऽहू॒त॒ । व॒याः । वि । ऊ॒तयः॑ । रु॒रु॒हुः॒ । इ॒न्द्र॒ पू॒र्वीः ॥अक्षः । न । चक्र्योः । शूर । बृहन् । प्र । ते । मह्ना । रिरिचे । रोदस्योः । वृक्षस्य । नु । ते । पुरुहूत । वयाः । वि । ऊतयः । रुरुहुः । इन्द्र पूर्वीः ॥akṣaḥ | na | cakryoḥ | śūra | bṛhan | pra | te | mahnā | ririce | rodasyoḥ | vṛkṣasya | nu | te | puru-hūta | vayāḥ | vi | ūtayaḥ | ruruhuḥ | indra pūrvīḥ