Sukta 6.24
ततुरिर्वीरो नर्यो विचेताः श्रोता हवं गृणत उर्व्यूतिः । वसुः शंसो नरां कारुधाया वाजी स्तुतो विदथे दाति वाजम् ॥
ततु॑रिर्वी॒रो नर्यो॒ विचे॑ता॒: श्रोता॒ हवं॑ गृण॒त उ॒र्व्यू॑तिः । वसु॒: शंसो॑ न॒रां का॒रुधा॑या वा॒जी स्तु॒तो वि॒दथे॑ दाति॒ वाज॑म् ॥
táturir vīró naryó vícetāḥ śrótā hávaṃ gṛṇatá urvyū́tiḥ | vásuḥ śáṃso narā́ṃ kārudhā́yā vājī́ stutó vidáthe dāti vā́jam ||
A swift-overcoming hero is he, a power for men, wide in discernment; he hears the call of the singer and his help is vast. A good treasure is the praise of men fashioned by the seer; the strong one, praised, gives in the assembly the plenitude of force.
ततु॑रिः । वी॒रः । नर्यः॑ । विऽचे॑ताः । श्रोता॑ । हव॑म् । गृ॒ण॒तः । उ॒र्विऽऊ॑तिः । वसुः॑ । शंसः॑ । न॒राम् । का॒रुऽधा॑याः । वा॒जी । स्तु॒तः । वि॒दथे॑ । दा॒ति॒ । वाज॑म् ॥ततुरिः । वीरः । नर्यः । विचेताः । श्रोता । हवम् । गृणतः । उर्विऊतिः । वसुः । शंसः । नराम् । कारुधायाः । वाजी । स्तुतः । विदथे । दाति । वाजम् ॥taturiḥ | vīraḥ | naryaḥ | vi-cetāḥ | śrotā | havam | gṛṇataḥ | urvi-ūtiḥ | vasuḥ | śaṃsaḥ | narām | kāru-dhāyāḥ | vājī | stutaḥ | vidathe | dāti | vājam