Sukta 6.24
वृषा मद इन्द्रे श्लोक उक्था सचा सोमेषु सुतपा ऋजीषी । अर्चत्र्यो मघवा नृभ्य उक्थैर्द्युक्षो राजा गिरामक्षितोतिः ॥
वृषा॒ मद॒ इन्द्रे॒ श्लोक॑ उ॒क्था सचा॒ सोमे॑षु सुत॒पा ऋ॑जी॒षी । अ॒र्च॒त्र्यो॑ म॒घवा॒ नृभ्य॑ उ॒क्थैर्द्यु॒क्षो राजा॑ गि॒रामक्षि॑तोतिः ॥
vṛ́ṣā máda índre ślóka ukthā́ sacā́ sómeṣu sutapā́ ṛjīṣī́ | arcatryò maghávā nṛ́bhya uktháir dyukṣó rājā girā́m akṣitótiḥ ||
A bull is the ecstasy in Indra; with it go the chant and the high utterance in the pressed Soma; he drinks the expressed delight and is strong in the shining draught. The giver of plenitude, by the hymns of men, is to be kindled in praise—he, the luminous king of the word, whose help does not diminish.
वृषा॑ । मदः॑ । इन्द्रे॑ । श्लोकः॑ । उ॒क्था । सचा॑ । सोमे॑षु । सु॒त॒ऽपाः । ऋ॒जी॒षी । अ॒र्च॒त्र्यः॑ । म॒घऽवा॑ । नृऽभ्यः॑ । उ॒क्थैः । द्यु॒क्षः । राजा॑ । गि॒राम् । अक्षि॑तऽऊतिः ॥वृषा । मदः । इन्द्रे । श्लोकः । उक्था । सचा । सोमेषु । सुतपाः । ऋजीषी । अर्चत्र्यः । मघवा । नृभ्यः । उक्थैः । द्युक्षः । राजा । गिराम् । अक्षितऊतिः ॥vṛṣā | madaḥ | indre | ślokaḥ | ukthā | sacā | someṣu | suta-pāḥ | ṛjīṣī | arcatryaḥ | magha-vā | nṛ-bhyaḥ | ukthaiḥ | dyukṣaḥ | rājā | girām | akṣita-ūtiḥ