Sukta 6.23
तं वः सखायः सं यथा सुतेषु सोमेभिरीं पृणता भोजमिन्द्रम् । कुवित्तस्मा असति नो भराय न सुष्विमिन्द्रोऽवसे मृधाति ॥
तं व॑: सखाय॒: सं यथा॑ सु॒तेषु॒ सोमे॑भिरीं पृणता भो॒जमिन्द्र॑म् । कु॒वित्तस्मा॒ अस॑ति नो॒ भरा॑य॒ न सुष्वि॒मिन्द्रोऽव॑से मृधाति ॥
táṃ vaḥ sakhā́yaḥ sáṃ yáthā sutéṣu sómebhir īṃ pṛṇatá bhojám índram | kúvit tásmā asáti no bharā́ya ná suṣvím índro ’váse mṛdhāti ||
Friends, fill and make complete that Indra the Enjoyer with the pressed Soma-draughts, as men do in the offerings. Surely he will be there for our bearing and bringing of the plenitude; Indra does not fail the well-pressing one when the being seeks his help.
तम् । वः॒ । स॒खा॒यः॒ । सम् । यथा॑ । सु॒तेषु॑ । सोमे॑भिः । ई॒म् । पृ॒ण॒त॒ । भो॒जम् । इन्द्र॑म् । कु॒वित् । तस्मै॑ । अस॑ति । नः॒ । भरा॑य । न । सुस्वि॑म् । इन्द्रः॑ । अव॑से । मृ॒धा॒ति॒ ॥तम् । वः । सखायः । सम् । यथा । सुतेषु । सोमेभिः । ईम् । पृणत । भोजम् । इन्द्रम् । कुवित् । तस्मै । असति । नः । भराय । न । सुस्विम् । इन्द्रः । अवसे । मृधाति ॥tam | vaḥ | sakhāyaḥ | sam | yathā | suteṣu | somebhiḥ | īm | pṛṇata | bhojam | indram | kuvit | tasmai | asati | naḥ | bharāya | na | susvim | indraḥ | avase | mṛdhāti