Sukta 6.23
एवेदिन्द्रः सुते अस्तावि सोमे भरद्वाजेषु क्षयदिन्मघोनः । असद्यथा जरित्र उत सूरिरिन्द्रो रायो विश्ववारस्य दाता ॥
ए॒वेदिन्द्र॑: सु॒ते अ॑स्तावि॒ सोमे॑ भ॒रद्वा॑जेषु॒ क्षय॒दिन्म॒घोन॑: । अस॒द्यथा॑ जरि॒त्र उ॒त सू॒रिरिन्द्रो॑ रा॒यो वि॒श्ववा॑रस्य दा॒ता ॥
evéd índraḥ suté astāvi sóme bharádvāj eṣu kṣáyat ín maghónaḥ | ásad yáthā jaritré utá sūrír índro rāyó viśvá-vārasya dātā́ ||
Thus indeed Indra is affirmed by the pressed Soma among the Bharadvājas; he dwells there as the bountiful one. May he be for the praiser as for the illumined giver: Indra, the bestower of the all-desirable plenitude of being.
ए॒व । इत् । इन्द्रः॑ । सु॒ते । अ॒स्ता॒वि॒ । सोमे॑ । भ॒रत्ऽवा॑जेषु । क्षय॑त् । इत् । म॒घोनः॑ । अस॑त् । यथा॑ । ज॒रि॒त्रे । उ॒त । सू॒रिः । इन्द्रः॑ । रा॒यः । वि॒श्वऽवा॑रस्य । दा॒ता ॥एव । इत् । इन्द्रः । सुते । अस्तावि । सोमे । भरत्वाजेषु । क्षयत् । इत् । मघोनः । असत् । यथा । जरित्रे । उत । सूरिः । इन्द्रः । रायः । विश्ववारस्य । दाता ॥eva | it | indraḥ | sute | astāvi | some | bharat-vājeṣu | kṣayat | it | maghonaḥ | asat | yathā | jaritre | uta | sūriḥ | indraḥ | rāyaḥ | viśva-vārasya | dātā