Sukta 6.23
स मन्दस्वा ह्यनु जोषमुग्र प्र त्वा यज्ञास इमे अश्नुवन्तु । प्रेमे हवासः पुरुहूतमस्मे आ त्वेयं धीरवस इन्द्र यम्याः ॥
स म॑न्दस्वा॒ ह्यनु॒ जोष॑मुग्र॒ प्र त्वा॑ य॒ज्ञास॑ इ॒मे अ॑श्नुवन्तु । प्रेमे हवा॑सः पुरुहू॒तम॒स्मे आ त्वे॒यं धीरव॑स इन्द्र यम्याः ॥
sa mán dasvā́ hy ànu jóṣam ugra prá tvā yajñā́sa imé aśnuvantu | préme havā́saḥ puruhūtám asmè ā́ tvéyaṃ dhī́r avase indra yamyā́ḥ ||
O Indra, the Forceful One, become glad and widen in the soul’s consenting delight; may these our workings of offering reach and take hold of thee. May these callings of ours press forward to the Many-invoked within us; to thee may this illumined thought yoke itself for our help, O Indra.
सः । म॒न्द॒स्व॒ । हि । अनु॑ । जोष॑म् । उ॒ग्र॒ । प्र । त्वा॒ । य॒ज्ञासः॑ । इ॒मे । अ॒श्नु॒व॒न्तु॒ । प्र । इ॒मे । हवा॑सः । पु॒रु॒ऽहू॒तम् । अ॒स्मे इति॑ । आ । त्वा॒ । इ॒यम् । धीः । अव॑से । इ॒न्द्र॒ । य॒म्याः॒ ॥सः । मन्दस्व । हि । अनु । जोषम् । उग्र । प्र । त्वा । यज्ञासः । इमे । अश्नुवन्तु । प्र । इमे । हवासः । पुरुहूतम् । अस्मे इति । आ । त्वा । इयम् । धीः । अवसे । इन्द्र । यम्याः ॥saḥ | mandasva | hi | anu | joṣam | ugra | pra | tvā | yajñāsaḥ | ime | aśnuvantu | pra | ime | havāsaḥ | puru-hūtam | asme iti | ā | tvā | iyam | dhīḥ | avase | indra | yamyāḥ