Sukta 6.23
स नो बोधि पुरोळाशं रराणः पिबा तु सोमं गोऋजीकमिन्द्र । एदं बर्हिर्यजमानस्य सीदोरुं कृधि त्वायत उ लोकम् ॥
स नो॑ बोधि पुरो॒ळाशं॒ ररा॑ण॒: पिबा॒ तु सोमं॒ गोऋ॑जीकमिन्द्र । एदं ब॒र्हिर्यज॑मानस्य सीदो॒रुं कृ॑धि त्वाय॒त उ॑ लो॒कम् ॥
sa no bodhi puroḷā́śaṃ rárāṇaḥ pibā́ tu sómaṃ go-ṛ́jīkam indra | édaṃ bárhir yajamā́nasya sīdóruṃ kṛdhi tvāyáta u lokám ||
Awaken to us, rejoicing in the offering-cake; drink the Soma that is rich in luminous rays, O Indra. Sit on this sacred seat of the sacrificer; make wide the world-space for the one who reaches out to thee.
सः । नः॒ । बो॒धि॒ । पु॒रो॒ळाश॑म् । ररा॑णः । पि॒ब॒ । तु । सोम॑म् । गोऽऋ॑जीकम् । इ॒न्द्र॒ । आ । इ॒दम् । ब॒र्हिः । यज॑मानस्य । सी॒द॒ । उ॒रुम् । कृ॒धि॒ । त्वा॒ऽय॒तः । ऊँ॒ इति॑ । लो॒कम् ॥सः । नः । बोधि । पुरोळाशम् । रराणः । पिब । तु । सोमम् । गोऋजीकम् । इन्द्र । आ । इदम् । बर्हिः । यजमानस्य । सीद । उरुम् । कृधि । त्वायतः । ऊँ इति । लोकम् ॥saḥ | naḥ | bodhi | puroḷāśam | rarāṇaḥ | piba | tu | somam | go--ṛjīkam | indra | ā | idam | barhiḥ | yajamānasya | sīda | urum | kṛdhi | tvāyataḥ | oṃ iti | lokam