Sukta 6.23
ब्रह्माणि हि चकृषे वर्धनानि तावत्त इन्द्र मतिभिर्विविष्मः । सुते सोमे सुतपाः शंतमानि राण्ड्या क्रियास्म वक्षणानि यज्ञैः ॥
ब्रह्मा॑णि॒ हि च॑कृ॒षे वर्ध॑नानि॒ ताव॑त्त इन्द्र म॒तिभि॑र्विविष्मः । सु॒ते सोमे॑ सुतपा॒: शंत॑मानि॒ राण्ड्या॑ क्रियास्म॒ वक्ष॑णानि य॒ज्ञैः ॥
bráhmāṇi hí cakṛṣé várdhanāni tā́vat te indra matí-bhir viviṣmaḥ | suté sóme suta-pāḥ śáṃ-tamāni rā́ṇḍyā kriyāsma vákṣaṇāni yajñáiḥ ||
For thou hast indeed made the mantras to be strengthenings; so far, O Indra, we would choose thee by our thoughts. O drinker of the pressed Soma, make for us by the sacrifices the most peace-giving prosperities, the rich enjoyments that bear us forward.
ब्रह्मा॑णि । हि । च॒कृ॒षे । वर्ध॑नानि । ताव॑त् । ते॒ । इ॒न्द्र॒ । म॒तिऽभिः॑ । वि॒वि॒ष्मः॒ । सु॒ते । सोमे॑ । सु॒त॒ऽपाः॒ । शम्ऽत॑मानि । रान्द्र्या॑ । क्रि॒या॒स्म॒ । वक्ष॑णानि । य॒ज्ञैः ॥ब्रह्माणि । हि । चकृषे । वर्धनानि । तावत् । ते । इन्द्र । मतिभिः । विविष्मः । सुते । सोमे । सुतपाः । शम्तमानि । रान्द्र्या । क्रियास्म । वक्षणानि । यज्ञैः ॥brahmāṇi | hi | cakṛṣe | vardhanāni | tāvat | te | indra | mati-bhiḥ | viviṣmaḥ | sute | some | suta-pāḥ | śam-tamāni | rāndryā | kriyāsma | vakṣaṇāni | yajñaiḥ