Sukta 6.23
अस्मै वयं यद्वावान तद्विविष्म इन्द्राय यो नः प्रदिवो अपस्कः । सुते सोमे स्तुमसि शंसदुक्थेन्द्राय ब्रह्म वर्धनं यथासत् ॥
अस्मै॑ व॒यं यद्वा॒वान॒ तद्वि॑विष्म॒ इन्द्रा॑य॒ यो न॑: प्र॒दिवो॒ अप॒स्कः । सु॒ते सोमे॑ स्तु॒मसि॒ शंस॑दु॒क्थेन्द्रा॑य॒ ब्रह्म॒ वर्ध॑नं॒ यथास॑त् ॥
ásmai vayáṃ yád vāvā́na tád viviṣma índrāya yó naḥ pra-divó apáskaḥ | suté sóme stumási śáṃsad ukthéndrāya bráhma várdhanaṃ yáthāsat ||
For him we would seek and choose what is truly to be chosen—for Indra who is our worker from the highest heaven. When Soma is pressed we praise; in the hymn we proclaim, so that for Indra the mantric word may become an increase of power.
अस्मै॑ । व॒यम् । यत् । व॒वान॑ । तत् । वि॒वि॒ष्मः॒ । इन्द्रा॑य । यः । नः॒ । प्र॒ऽदिवः । अपः॑ । क॒रिति॑ कः । सु॒ते । सोमे॑ । स्तु॒मसि॑ । शंस॑त् । उ॒क्था । इन्द्रा॑य । ब्रह्म॑ । वर्ध॑नम् । यथा॑ । अस॑त् ॥अस्मै । वयम् । यत् । ववान । तत् । विविष्मः । इन्द्राय । यः । नः । प्रदिवः । अपः । करिति कः । सुते । सोमे । स्तुमसि । शंसत् । उक्था । इन्द्राय । ब्रह्म । वर्धनम् । यथा । असत् ॥asmai | vayam | yat | vavāna | tat | viviṣmaḥ | indrāya | yaḥ | naḥ | pra-divaḥ | apaḥ | karitikaḥ | sute | some | stumasi | śaṃsat | ukthā | indrāya | brahma | vardhanam | yathā | asat