Sukta 6.23
गन्तेयान्ति सवना हरिभ्यां बभ्रिर्वज्रं पपिः सोमं ददिर्गाः । कर्ता वीरं नर्यं सर्ववीरं श्रोता हवं गृणतः स्तोमवाहाः ॥
गन्तेया॑न्ति॒ सव॑ना॒ हरि॑भ्यां ब॒भ्रिर्वज्रं॑ प॒पिः सोमं॑ द॒दिर्गाः । कर्ता॑ वी॒रं नर्यं॒ सर्व॑वीरं॒ श्रोता॒ हवं॑ गृण॒तः स्तोम॑वाहाः ॥
gantā́ iyanti sávanā háribhyāṃ babhrír vájraṃ papíḥ sómaṃ dadír gā́ḥ | kártā vīráṃ náryaṃ sárva-vīraṃ śróta hámvaṃ gṛṇatáḥ stóma-vāhāḥ ||
He comes; he goes to the pressings with his tawny powers: bearing the thunder-force, drinking the Soma, giving the rays of light. He makes the hero, the manly one, the all-hero; he hears the call of the singing one—he who carries the hymns.
गन्ता॑ । इय॑न्ति । सव॑ना । हरि॑ऽभ्याम् । ब॒भ्रिः । वज्र॑म् । प॒पिः । सोम॑म् । द॒दिः । गाः । कर्ता॑ । वी॒रम् । नर्य॑म् । सर्व॑ऽवीरम् । श्रोता॑ । हव॑म् । गृ॒ण॒तः । स्तोम॑ऽवाहाः ॥गन्ता । इयन्ति । सवना । हरिभ्याम् । बभ्रिः । वज्रम् । पपिः । सोमम् । ददिः । गाः । कर्ता । वीरम् । नर्यम् । सर्ववीरम् । श्रोता । हवम् । गृणतः । स्तोमवाहाः ॥gantā | iyanti | savanā | hari-bhyām | babhriḥ | vajram | papiḥ | somam | dadiḥ | gāḥ | kartā | vīram | naryam | sarva-vīram | śrotā | havam | gṛṇataḥ | stoma-vāhāḥ