Sukta 6.23
पाता सुतमिन्द्रो अस्तु सोमं प्रणेनीरुग्रो जरितारमूती । कर्ता वीराय सुष्वय उ लोकं दाता वसु स्तुवते कीरये चित् ॥
पाता॑ सु॒तमिन्द्रो॑ अस्तु॒ सोमं॑ प्रणे॒नीरु॒ग्रो ज॑रि॒तार॑मू॒ती । कर्ता॑ वी॒राय॒ सुष्व॑य उ लो॒कं दाता॒ वसु॑ स्तुव॒ते की॒रये॑ चित् ॥
pā́tā sutám índro astu sómaṃ praṇenī́r ugró jaritā́ram ūtī́ | kártā vīrā́ya súṣvaya u lokáṃ dā́tā vásu stuváte kīráye cit ||
Let Indra drink the pressed Soma—fierce leader, bringing the singer forward by his protection. He creates for the hero who presses well a wide space of being; he gives riches of substance even to the poet who praises.
पाता॑ । सु॒तम् । इन्द्रः॑ । अ॒स्तु॒ । सोम॑म् । प्र॒ऽने॒नीः । उ॒ग्रः । ज॒रि॒तार॑म् । ऊ॒ती । कर्ता॑ । वी॒राय॑ । सुस्व॑ये । ऊ॒म्ँम् इति॑ । लो॒कम् । दाता॑ । वसु॑ । स्तु॒व॒ते । की॒रये॑ । चि॒त् ॥पाता । सुतम् । इन्द्रः । अस्तु । सोमम् । प्रनेनीः । उग्रः । जरितारम् । ऊती । कर्ता । वीराय । सुस्वये । ऊम्ँम् इति । लोकम् । दाता । वसु । स्तुवते । कीरये । चित् ॥pātā | sutam | indraḥ | astu | somam | pra-nenīḥ | ugraḥ | jaritāram | ūtī | kartā | vīrāya | susvaye | ūm ṃm iti[?] | lokam | dātā | vasu | stuvate | kīraye | cit