Sukta 6.23
यद्वा दिवि पार्ये सुष्विमिन्द्र वृत्रहत्येऽवसि शूरसातौ । यद्वा दक्षस्य बिभ्युषो अबिभ्यदरन्धयः शर्धत इन्द्र दस्यून् ॥
यद्वा॑ दि॒वि पार्ये॒ सुष्वि॑मिन्द्र वृत्र॒हत्येऽव॑सि॒ शूर॑सातौ । यद्वा॒ दक्ष॑स्य बि॒भ्युषो॒ अबि॑भ्य॒दर॑न्धय॒: शर्ध॑त इन्द्र॒ दस्यू॑न् ॥
yád vā diví pā́rye súṣvim indra vṛtra-hátye ’vási śūra-sā́tau | yád vā dákṣasya bibhyúṣo ábibhyad áraṇdhayaḥ śárdhata indra dásyūn ||
Whether in the far heaven, O Indra, thou hast grown strong for the slaying of obstruction, for the winning of the hero; or whether, fearless, thou didst subdue the Dasyu hordes who feared thy power and skill—so art thou our aid in the battle for the Light.
यत् । वा॒ । दि॒वि । पार्ये॑ । सुस्वि॑म् । इ॒न्द्र॒ । वृ॒त्र॒ऽहत्ये॑ । व॑सि । शूर॑ऽसातौ । यत् । वा॒ । दक्ष॑स्य । बि॒भ्युषः॑ । अबि॑भ्यत् । अर॑न्धयः । शर्ध॑तः । इ॒न्द्र॒ । दस्यू॑न् ॥यत् । वा । दिवि । पार्ये । सुस्विम् । इन्द्र । वृत्रहत्ये । वसि । शूरसातौ । यत् । वा । दक्षस्य । बिभ्युषः । अबिभ्यत् । अरन्धयः । शर्धतः । इन्द्र । दस्यून् ॥yat | vā | divi | pārye | susvim | indra | vṛtra-hatye | vasi | śūra-sātau | yat | vā | dakṣasya | bibhyuṣaḥ | abibhyat | arandhayaḥ | śardhataḥ | indra | dasyūn