Sukta 6.23
सुत इत्त्वं निमिश्ल इन्द्र सोमे स्तोमे ब्रह्मणि शस्यमान उक्थे । यद्वा युक्ताभ्यां मघवन्हरिभ्यां बिभ्रद्वज्रं बाह्वोरिन्द्र यासि ॥
सु॒त इत्त्वं निमि॑श्ल इन्द्र॒ सोमे॒ स्तोमे॒ ब्रह्म॑णि श॒स्यमा॑न उ॒क्थे । यद्वा॑ यु॒क्ताभ्यां॑ मघव॒न्हरि॑भ्यां॒ बिभ्र॒द्वज्रं॑ बा॒ह्वोरि॑न्द्र॒ यासि॑ ॥
sutá ít tvaṃ ní-miśla indra sóme stóme bráhmaṇi śasyámāna ukthé | yád vā yuktā́bhyāṃ maghavan háribhyāṃ bíbhra(d) vájraṃ bāhvór indra yā́si ||
When the Soma is pressed, then thou art wholly attentive, O Indra—praised in the chant, in the sacred word, in the uttered hymn. Or when, O bounteous one, yoked with thy two tawny powers, bearing the thunder-force on thy arms, thou comest.
सु॒ते । इत् । त्वम् । निऽमि॑श्लः । इ॒न्द्र॒ । सोमे॑ । स्तोमे॑ । ब्रह्म॑णि । श॒स्यमा॑ने । उ॒क्थे । यत् । वा॒ । यु॒क्ताभ्या॑म् । म॒घ॒ऽव॒न् । हरि॑ऽभ्याम् । बिभ्र॑त् । वज्र॑म् । बा॒ह्वोः । इ॒न्द्र॒ । यासि॑ ॥सुते । इत् । त्वम् । निमिश्लः । इन्द्र । सोमे । स्तोमे । ब्रह्मणि । शस्यमाने । उक्थे । यत् । वा । युक्ताभ्याम् । मघवन् । हरिभ्याम् । बिभ्रत् । वज्रम् । बाह्वोः । इन्द्र । यासि ॥sute | it | tvam | ni-miślaḥ | indra | some | stome | brahmaṇi | śasyamāne | ukthe | yat | vā | yuktābhyām | magha-van | hari-bhyām | bibhrat | vajram | bāhvoḥ | indra | yāsi