Sukta 6.22
स नो नियुद्भिः पुरुहूत वेधो विश्ववाराभिरा गहि प्रयज्यो । न या अदेवो वरते न देव आभिर्याहि तूयमा मद्र्यद्रिक् ॥
स नो॑ नि॒युद्भि॑: पुरुहूत वेधो वि॒श्ववा॑राभि॒रा ग॑हि प्रयज्यो । न या अदे॑वो॒ वर॑ते॒ न दे॒व आभि॑र्याहि॒ तूय॒मा म॑द्र्य॒द्रिक् ॥
sa no niyúd-bhiḥ puru-hūta vedho viśvá-vārābhir ā́ gahi prayajyo | na yā́ adévo várate na devá ā́bhir yāhi tū́yam ā́ madryadrik ||
Come to us, O much-invoked Knower, with thy yoked energies and with all desirable boons, O swift to the sacrifice. None undivine can choose these powers, nor even the gods (without thy sanction); with them come quickly to our glad seeing and drink of the delight.
सः । नः॒ । नि॒युत्ऽभिः॑ । पु॒रु॒ऽहू॒त॒ । वे॒धः॒ । वि॒श्वऽवा॑राभिः । आ । ग॒हि॒ । प्र॒य॒ज्यो॒ इति॑ प्रऽयज्यो । न । याः । अदे॑वः । वर॑ते । न । दे॒वः । आ । आ॒भिः॒ । या॒हि॒ । तूय॑म् । आ । म॒द्र्य॒द्रिक् ॥सः । नः । नियुत्भिः । पुरुहूत । वेधः । विश्ववाराभिः । आ । गहि । प्रयज्यो इति प्रयज्यो । न । याः । अदेवः । वरते । न । देवः । आ । आभिः । याहि । तूयम् । आ । मद्र्यद्रिक् ॥saḥ | naḥ | niyut-bhiḥ | puru-hūta | vedhaḥ | viśva-vārābhiḥ | ā | gahi | prayajyo itipra-yajyo | na | yāḥ | adevaḥ | varate | na | devaḥ | ā | ābhiḥ | yāhi | tūyam | ā | madryadrik