Sukta 6.21
स तु श्रुधीन्द्र नूतनस्य ब्रह्मण्यतो वीर कारुधायः । त्वं ह्यापिः प्रदिवि पितॄणां शश्वद्बभूथ सुहव एष्टौ ॥
स तु श्रु॑धीन्द्र॒ नूत॑नस्य ब्रह्मण्य॒तो वी॑र कारुधायः । त्वं ह्या॒३॒॑पिः प्र॒दिवि॑ पितॄ॒णां शश्व॑द्ब॒भूथ॑ सु॒हव॒ एष्टौ॑ ॥
sa tu śrudhīndra nūtanasya brahmaṇyato vīra kāru-dhāyaḥ | tvaṃ hy āpiḥ pra-divi pitṝṇāṃ śaśvad babhūtha su-hava eṣṭau ||
Therefore hear, O Indra, the new word of the one who seeks the brahman, O Hero, who upholds the poet’s work. For you are indeed the close kin in the fore-heaven of the Fathers; ever you have become the easy-to-call in the seeking.
सः । तु । श्रु॒धि॒ । इ॒न्द्र॒ । नूत॑नस्य । ब्र॒ह्म॒ण्य॒तः । वी॒र॒ । का॒रु॒ऽधा॒यः॒ । त्वम् । हि । आ॒पिः । प्र॒ऽदिवि॑ । पि॒तॄ॒णाम् । शश्व॑त् । ब॒भूथ॑ । सु॒ऽहवः॑ । आऽइ॑ष्टौ ॥सः । तु । श्रुधि । इन्द्र । नूतनस्य । ब्रह्मण्यतः । वीर । कारुधायः । त्वम् । हि । आपिः । प्रदिवि । पितॄणाम् । शश्वत् । बभूथ । सुहवः । आइष्टौ ॥saḥ | tu | śrudhi | indra | nūtanasya | brahmaṇyataḥ | vīra | kāru-dhāyaḥ | tvam | hi | āpiḥ | pra-divi | pitṝṇām | śaśvat | babhūtha | su-havaḥ | āiṣṭau